|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.152. अध्यायः 152
Mahabharata - Drona Parva - Chapter Topics
द्रोणेन सोपालम्भं दुर्योधनाश्वासनपूर्वकं रणाय निर्याणम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-152-0x(4668)(51675)
सिन्धुराजे हते तात समरे सव्यसाचिना।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा॥ 7-152-1(51676)
दुर्योधनेन च द्रोणस्तथोक्तः कुरसंसदि।
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय॥ 7-152-2(51677)
सञ्जय उवाच। 7-152-3x(4669)
निष्टानको महानासीत्सैन्यानां तव भारत।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च॥ 7-152-3(51678)
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे।
येन मन्त्रैण निहताः शतशः क्षत्रियर्षभाः॥ 7-152-4(51679)
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः।
मुहूर्तमिव च ध्यात्वा भृशमार्तोऽभ्यभाषत॥ 7-152-5(51680)
द्रोण उवाच। 7-152-6x(4670)
दुर्योधन किमेवं मां वाक्शरैरुपकृन्तसि।
अजय्यं सततं सङ्ख्ये ब्रुवाणं सव्यसाचिनम्॥ 7-152-6(51681)
एतेनवार्जुनं ज्ञातुमलं कौरव संयुगे।
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना॥ 7-152-7(51682)
अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः।
तदैवाज्ञासिषमहं नेयमस्तीति भारती॥ 7-152-8(51683)
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्म हि।
तस्मिन्निपतिते भीष्मे कं शेषं पर्युपास्महे॥ 7-152-9(51684)
यान्स्म तान्ग्लहते तात शकुनिः कुरुसंसदि।
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः। 7-152-10(51685)
`अक्षांस्तु मन्यसे बाणाञ्छोभमानाञ्छिताञ्शरान्'
त एते घ्नन्ति नस्तात विशिखाः पार्थचोदिताः।
तांस्तदाऽऽख्यायमानस्त्वं विदुरेण न बुद्धवान्॥ 7-152-11(51686)
यास्ता विलपतश्चापि विदुरस्य महात्मनः।
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः॥ 7-152-12(51687)
तदिदं वर्तते घोरमागतं वैशसं महत्।
तस्यावमानाद्वाक्यस्य दुःशासनकृतेन च॥ 7-152-13(51688)
योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम्।
स्वमतं कुरुते मूढः स शोच्यो नचिरादिव॥ 7-152-14(51689)
यच्च नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम्।
अनर्हन्तीं कुले जातां सर्वधर्मानुचारिणीम्॥ 7-152-15(51690)
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत्।
नोचेत्पापं परे लोके त्वमृच्छेथास्ततोऽधिकम्॥ 7-152-16(51691)
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह।
प्राव्राजयस्तदाऽरण्ये रौरवाजिनवाससः॥ 7-152-17(51692)
पुत्राणामिव चैतेषां धर्ममाचरतां सदा।
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः॥ 7-152-18(51693)
पाण्डवानामयं कोपस्त्वया शकुनिना सह।
आहृतो धृतराष्ट्रस्य सम्मते कुरु संसदि॥ 7-152-19(51694)
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः।
क्षत्तुर्वाक्यमनादृत्य त्वयाऽब्यस्तः पुनः पुनः॥ 7-152-20(51695)
`स हि नः क्रोधवृक्षश्च कृतमूलो महात्मनाम्।
तस्य पुष्पफले राजन्नुपभुङ्क्ष्व महाबल'॥ 7-152-21(51696)
यत्ताः सर्वे पराभूताः पर्यवारयतार्जुनम्।
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः॥ 7-152-22(51697)
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति।
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत्॥ 7-152-23(51698)
युध्यन्तः सर्वराजानस्तेजस्विन उपासते।
सिन्धुराजं परित्रातुं वो मध्ये कथं हतः॥ 7-152-24(51699)
मय्येव हि विशेषेण तथा दुर्योधन त्वयि।
आशंसत परित्राणमर्जुनात्स महीपतिः॥ 7-152-25(51700)
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात्।
न किञ्चिदनुपश्यामि जीवितस्थानमात्मनः॥ 7-152-26(51701)
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य संयुगे।
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना॥ 7-152-27(51702)
तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि।
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत॥ 7-152-28(51703)
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः।
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम्॥ 7-152-29(51704)
मध्ये महारथानां किं शेषं तत्र मन्यसे।
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे॥ 7-152-30(51705)
कृप एव च दुर्धर्षो यदि जीवति पार्थिव।
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम्॥ 7-152-31(51706)
यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै।
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम्॥ 7-152-32(51707)
अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः।
न ते वसुन्धराऽस्तीति तदाहं चिन्तये नृप॥ 7-152-33(51708)
इमानि पाण्डवानां च सृज्जयानां च भारत।
अनीकान्याद्रवन्ते मां सहितान्यद्य भारत॥ 7-152-34(51709)
नाहत्वा सर्वपाञ्चलान्कवचस्य विमोक्षणम्।
कर्ताऽस्मि समरे कर्म धार्तराष्ट्र हितं तव॥ 7-152-35(51710)
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे।
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता॥ 7-152-36(51711)
यच्च पित्राऽनुशिष्टोऽसि तद्वचः परिपालय।
आनृशंस्ये दमे सत्ये चार्जवे च स्थिरो भव॥ 7-152-37(51712)
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन्।
धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः॥ 7-152-38(51713)
चक्षुर्मनोभ्यां सन्तोष्या विप्राः पूज्याश्च शक्तितः।
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः॥ 7-152-39(51714)
एष त्वहमनीकानि प्रविशाम्यरिसूदन।
रणाय महते राजंस्त्वया वाक्शरपीडितः॥ 7-152-40(51715)
त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय।
रात्रावपि च योद्धव्याः संरब्धाः कुरुसृञ्जयाः॥ 7-152-41(51716)
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्वसृञ्जयान्।
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान्॥ ॥ 7-152-42(51717)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विपञ्चाशदधिकशततमोऽध्यायः॥ 152 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-152-3 निष्टानकः सव्यथः शब्दः॥ 5-152-8 इयं सेना नास्तीत्यस्य नष्टेत्यर्थः॥ 5-152-10 ग्लहते पातयति॥ 5-152-16 नोचेदिति। परेलोकेऽधिकः पापिनां क्लेश इहत्वल्पेनैव भोगेन निस्तार इति भावः॥ नेह चेत्परलोके यत्पापमिच्छेत्ततोऽधिकम् इति क. पाठः। न भवेत्परलोके यत्तप्तमिच्छेत्ततोऽधिकम्। इति ख. पाठः। नोचेत्पापं परं लोके त्वं मन्येथास्ततोऽधिकम् इति ङ.पाठः। नेह वै परलोकाय पापमिच्छेत पार्थिवः इति ट.ङ.पाठः॥ 5-152-20 अभ्यस्त आवर्तितः॥ 5-152-22 यस्तु शर्वाद्वरं लब्ध्वा पर्यवारयदर्जुनम्। सिन्धुराजः समाश्रित्य स वो मध्ये कथं हतः इति क.ख.पाठः। यत्ताः सर्वे पुरा भूत्वा अर्जुनं पर्यवारयन्। सिन्धुराजाः समाश्रित्य स वो मध्ये कथं हतः इति ट.पाठः। यत्तत्सर्वे परं भूत्वा पर्यवारयतार्जुनम्। सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः इति ङ. पाठः। यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम्। सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः इति ङ. पाठः॥ 5-152-27 पश्याम्यहं वै पाञ्चालान्सह तेन शिखण्डिना इति क.ट.ङ.पाठः। धृष्टद्युम्नस्य किल्पिषे इति झ.पाठः॥ 5-152-152 द्विपञ्चाशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|